Testo Mantra Pushpam - Seven
Testo della canzone Mantra Pushpam (Seven), tratta dall'album Sacred Chants
ॐ भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवागंसस्तनूभिः
व्यशेम देवहितं यदायूः
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः
ॐ योऽपां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति
चन्द्रमा वा अपां पुष्पं पुष्पवान प्रजावान्पशुमान् भवति
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति
अग्निर्वा अपामायतनं आयतनवान् भवति
योऽग्निरायतनं वेद आयतनवान् भवति
आपो वा अग्नेरायतनं आयतनवान् भवति
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति
वायुर्वा अपामायतनं आयतनवान् भवति
यो वायोरायतनं वेद आयतनवान् भवति
आपो वै वायोरायतनं आयतनवान् भवति
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति
असौ वै तपन्नपामायतनं आयतनवान् भवति
योऽमुष्य तपत आयतनं वेद आयतनवान् भवति
आपो वा अमुष्य तपत आयतनं आयतनवान् भवति
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति
चन्द्रमा वा अपामायतनं आयतनवान् भवति
यश्र्चन्द्रमस आयतनं वेद आयतनवान् भवति
आपो वै चान्द्रमस आयतनं आयतनवान् भवति
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति
नक्षत्राणि वा अपामायतनं आयतनवान् भवति
यो नक्षत्राणामायतनं वेद आयतनवान् भवति
आपो वै नक्षत्राणामायतनं आयतनवान् भवति
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति
पर्जन्यो वा अपामायतनं आयतनवान् भवति
यः पर्जन्यस्यायतनं वेद आयतनवान् भवति
आपो वै पर्जन्यस्यायतनं आयतनवान् भवति
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति
संवत्सरो वा अपामायतनं आयतनवान् भवति
यस्संवत्सरस्यायतनं वेद आयतनवान् भवति
आपो वै संवत्सरस्यायतनं आयतनवान् भवति
य एवं वेद योऽप्सु नावं प्रतिष्ठितां वेद प्रत्येव तिष्ठति
ॐ राजाधि राजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कूर्महे
समे कामान् काम कामाय मह्यं कामेश्र्वरो वैश्रवणो दधातु
कुबेराय वैश्रवणाय महाराजाय नमः
ॐ शान्तिः शान्तिः शान्तिः
Credits
Writer(s): Devassy Stephen
Lyrics powered by www.musixmatch.com
Link
Disclaimer:
i testi sono forniti da Musixmatch.
Per richieste di variazioni o rimozioni è possibile contattare
direttamente Musixmatch nel caso tu sia
un artista o
un publisher.